Skip to content

पुष्पाञ्जलि, दक्षिणा एवं क्षमा प्रार्थना

पुस्पाञ्जलि

देवतास्तुतिः

खर्व स्थूलतनूं गजेन्द्रबदनं लम्बोदरं सुन्दरं ।
प्रस्यन्दन्मद्गन्धलुब्धमधूपब्यालोल गण्ड्स्थलम् ।
दन्ताघातविदारितारिरुधिरै : सिन्दुरशोभाकरं ।
बन्दे शैलसुतासुतं गणपतिं सिद्दिप्रदं कामदम् ।।

रम्ताम्बुजासनमशेष गुणैकसिन्धुं
भानुं समस्तजगतमधिपं भजामी ।
पद्मद्वयाभयवरान् दधतं भजामी।
र्माणिक्यमौलिमरुणाङ्ग रुर्ची त्रीनेत्रम् ।।

सिंहस्था शशिशेखरा मरकतप्राख्यै श्चतुर्भिभुजै:
शङखं चक्रधनुः शरांश्च दधती नेत्रैस्त्रीभीः शोभिता ।
आमुत्ताङ्गदाहारकङ्कणरणत् कान्चिरणन्नूपुरा ।
दुर्गा दुर्गतिहारिणी भवतुनो रत्नोल्लसात्कुण्डला ।

उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदा पङ्कजं ।
चक्रं बिभ्रतमिन्दिरा बसुमती संशोभिपार्श्वद्वय ।।
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभै
र्दिप्तं बिश्वधरं स्ववक्षसी लसच्छ्रीवत्सचिहन्नं भजे ।

मन्दारमालाकुलितालकायै
कपालमालङ्कितशेखराय ।
दिब्याम्बरायै च दिगम्बराय ।
नम: शिवायै च नम: शिवाय ।

अतुलितबलधामं हेमशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधिशं
रघुपतिप्रीयभत्तं वातजातं नमामी ।

सूर्य: सौर्यमथेन्दुरुच्चपदविं सन्मंगलं मङ्गल: ।
सद्बुद्दिंच बुधो गुरुश्च गूरुतां शुक्र: सुखं शं शनि: ।
राहुर्बाहुबलं करोतु सततं केतु: कुलस्योन्नतीं।
नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला: ग्रहा: ।

बर्हापीडं नटवरवपु: कर्णयो कर्णिकारं
बिभ्रद् वास: कनककपिशं बैजयन्तिं च मालाम् ।
रन्ध्रान् बेणो रधरसुधया पूरयन् गोपबृन्दै-
र्बृन्दारण्यं स्वपदरमणं प्राबिशद् गितकिर्ती: ।

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामांकारुढसीता मुखकमलमिलल्लोचनं निरदाभं
नानालंकार दिप्तं दधतमुरुजटामंडलं रामचंद्रम् ।।
ॐ यज्ञेन यज्ञमयजंत देवास्तानी धर्माणी प्रथमान्यासन्ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ।।
ॐ राजा धिराजाय प्रसह्ये साहिने,नमो बयं बैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् कमेश्वरो बैश्रवणो ददातु।। कुबेराय बैश्रवणाय महाराजाय नम: ।।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं बैराज्यं पारमेष्ठ्यां राज्यं माहाराज्यमधिपत्यमयं समन्तपर्यायी स्यात् सर्वभौम: सर्वायु षान्तादापरार्धात् पृथिब्यै समुद्रपर्यन्ताया एकराडिती तदप्येष श्लोकोऽभिगितो मरुत: परिबेष्टारो मरुत्तस्यावसन् गृहे आविक्षीतस्य कामप्रेविश्वेदेवा: सभासद इति ।
ॐ बिश्वतच्चक्षुरुत बिश्वतोमुखोबिश्वतोबाहुरुत बिश्वतस्पात् । सं बाहुभ्यां धमती सं पतत्रैर्द्यावाभूमी जनयन् देव एक : ।

देवतागायत्र्यः

ॐ एकदन्ताय विद्महे बक्रतुण्डाय धीमही ।
तन्नो दन्ती प्रचोदयात् ।।
ॐ कात्यायन्यै च विद्महे कन्याकुमार्यै च धीमही ।
तन्नो दुर्गा प्रचोदयात् ।
ॐ नारायणाय बिद्महे वासुदेवाय धीमहि ।
तन्नो बिष्णु: प्रचोदयात् ।
ॐ भाष्कराय विद्महे दिवाकराय धीमही ।
तन्नो सूर्य: प्रचोदयात् ।
महालक्षम्यै च बिद्महे बिष्णुपन्त्यै ।
तन्नो लक्षमी: प्रचोदयात् ।
ॐ सरस्वत्यै च बिद्महे विद्यादात्र्यै च धिमही ।
तन्नो वाणी प्रचोदयात् ।
ॐ तत्पुरुषाय बिद्महे महादेवाय धीमही ।
तन्नो रुद्र: प्रचोदयात् ।।
इमानी पुष्पाणी मनोहराणी
सुरासुराणामपी दुर्लभानी।
कल्पद्रुमादि द्रुमजानी तानी
पुष्पान्जलिर्मेऽस्तु सुखाय नित्यम्।।
नाना सुगन्ध पुष्पाणी देशकालोद्भवानी च ।
पुष्पान्जलिर्मया दत्तं गृहाण परमेस्वर :।।

मन्त्रपुष्पाञ्जलि समर्पयामि...

दक्षिणा

पुष्पाञ्जलिपछि भगवानको चरणमा द्रव्य (दक्षिणा) राखी तलको मन्त्र पढ्ने।
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ कृष्णाय वासुदेवाय दक्षिणां समर्पयामि ॥

क्षमा प्रार्थना

पूजाका क्रममा भएका ज्ञात-अज्ञात त्रुटिका लागि हात जोडेर क्षमा माग्ने।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाकर्म न जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽहमिति मां मत्वा क्षमस्व परमेश्वर ॥

नेपाली–संस्कृत पूजा विधि र ग्रन्थ सङ्ग्रह