Skip to content

मङ्गल पाठ

सुमुखश्चैक-दन्तश्च कपिलो गज-कर्णकः।
लम्बोदरश्च विकटो विघ्न-नाशो विनायकः॥१॥

धूम्र-केतुर्गणाध्यक्षो भाल-चन्द्रो गजाननः।
द्वादशैतानि नामानि यः पठच्छृणुयादपि॥२॥

विद्यारम्भे विवाहे च विदेश-गमने तथा।
संग्रामे सकटे चैव विघ्नस्तस्य न जायते॥३॥

शुक्लाम्बर-धरं देवं शशि-वर्णं चतुर्भुजम्।
प्रसन्न-वदनं ध्यायेत् सर्व-विघ्नोपशान्तये॥४॥

सर्व-मङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके !
शरण्ये त्र्यम्बके गौरि नारायणि! नमोऽस्तु ते॥५॥

सर्वदा सर्व-कार्येषु नास्ति तेषाममङ्गलम्।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः॥६॥

तदेव लग्नं सुदिनं तदेव, तारा-बलं चन्द्र-बलं तदेव।
विद्या-बलं दैव-बलं तदेव, लक्ष्मीपतेरंघ्रि-युगं स्मरामि॥७॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषामिन्दीवर-श्यामो हृदयस्थो जनार्दनः॥८॥

विनायकं गुरुं भानुं ब्रह्मा-विष्णु-महेश्वरान्।
सरस्वतीं प्रणम्यादौ सर्व-कार्यार्थ-सिद्धये॥९॥

अभीप्सितार्थ-सिद्ध्यर्थं पूजितो यः सुरासुरैः।
सर्व-विघ्नच्छिदे तस्मै गणाधिपतये नमः॥१०॥

सर्वेष्वारब्ध-कार्येषु त्रयस्त्रि-भुवनेश्वराः।
देवाः दिशन्तु नः सिद्धिं ब्रह्मेशान-जनार्दनाः॥११॥

नेपाली–संस्कृत पूजा विधि र ग्रन्थ सङ्ग्रह