Skip to content

श्रीलक्ष्मीस्तोत्रम्

देवकृतम् ।
क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे।
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते॥१॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम्॥२॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणि।
रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः॥३॥

कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका।
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥४॥

वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती।
गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः॥५॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वं च वृन्दावनवने वने॥६॥

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।
विरजा चम्पकवने शतश‍ृङ्गे च सुन्दरी॥७॥

पद्मावती पद्मवने मालती मालतीवने।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥८॥

कदम्बमाला त्वं देवि कदम्बकाननेऽपि च ।
राजलक्ष्मी राजगृहे गृहलक्ष्मीर्गृहे गृहे॥९॥

इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा ।
रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः॥१०॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवम्॥११॥

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् ।
सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥१२॥

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्॥१३॥

परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम्।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम्॥१४॥

हतबन्धुर्लभेद्वन्धुं धनभ्रष्टो धनं लभेत्।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद्ध्रुवम्॥१५॥

सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम्।
हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम्॥१६॥

इति देवकृतं श्रीलक्ष्मीस्तोत्रं सम्पूर्णम्।

नेपाली–संस्कृत पूजा विधि र ग्रन्थ सङ्ग्रह