रूप
श्रीमहालक्ष्मीकवचम्
श्री गणेशाय नमः ।
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः महालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोगः।
इन्द्र उवाच ।
समस्तकवचानां तु तेजस्वि कवचोत्तमम्।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते॥१॥
श्रीगुरुरुवाच।
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम्॥२॥
ब्रह्मोवाच ।
शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा।
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा॥३॥
घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी।
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी॥४॥
स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी।
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना॥५॥
वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी।
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका॥६॥
कटिं च पातु वाराही सक्थिनी देवदेवता।
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी॥७॥
इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता।
नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी॥८॥
ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः।
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये॥९॥
कवचेनावृताङ्गनां जनानां जयदा सदा।
मातेव सर्वसुखदा भव त्वममरेश्वरी॥१०॥
भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम्।
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन्॥११॥
नामत्रयमिदं जप्त्वा स याति परमां श्रियम्।
यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात्॥१२॥
॥ इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं महालक्ष्मीकवचं सम्पूर्णम् ॥