रूप
विसर्जन इत्यादि उ. कर्म
विसर्जन
ततो विसर्जनम्
ततः कर्ता देवायार्घ्यं निवेद्य बन्धुवर्गेर्बाह्मणैश्च सह यज्ञे देवेषु च पुष्पाक्षताः क्षिपन् यानि कानीति मन्त्रेण यज्ञप्रदक्षिणां कुर्यात्
चन्दन अक्क्षता पुष्प छार्किदै लिएर यज्ञको परिक्रमा गर्ने
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्तु प्रदक्षिणपदे पदे ।।
इति प्रदक्षिणीकृत्य नमस्कुर्यात् । पुष्पाक्षतैः ब्रह्माणं सम्पूज्य उतिष्ठ ब्रह्मणस्पते इति विसृज्य उत्थापयेत् -
ॠषि उठाउने
ॐ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानवऽइन्द्रप्पाशूर्भवा सचा ॥
ततो यान्तु देवेति पुष्पाक्षतैरभ्यर्च देवान्
चन्दन अक्क्षता पुष्प छर्किएर देवता विसर्जन गर्ने
ॐ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।
इष्टकामप्रसिद्धयर्थं पुनरागमनाय च ॥
विसर्जयेत्-
पवित्र खोलेर पानि समाउने
ॐ कायेन वाचा मनसेन्द्रीयैर्वा
बुध्यत्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ।।इति भूमौ त्यजेत् -
ततो यस्य स्मृत्येति अच्युतं नमस्कुर्यात्
खालि हातले नमस्कार गर्ने
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।।
ॐ अच्युताय नमः ।इति प्रब्रूयात् ।
ततोऽञ्जलिं कृत्वा चतुर्भिश्चेति पठेत् ।।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ।।
ॐ विष्णावे नम: ।इति त्रि उच्चार्य
प्रसाद अर्पनम्
तिलक - चन्दन - अक्षता - रक्षावन्धन- पक्वान्न- फल- फुल पन्चामृत इत्यादि : कुल – देवालय- तुलसा- आशामुखी र भुत प्रेत क्षेत्रपाल इत्यादि लाइ पनि सम्झिएर अर्पण गर्ने ।
अभिषेकः
तत्राभिषेकः । आचार्यादयो ब्राह्मणाः शान्तिकलशोदकेन पौराणिकैर्वेदिकैश्च मन्त्रैर्यजमानस्याभिषेकं कुर्युः। तत्रादौ पौराणिका मन्त्राः
अभिषेक गरिदिने
ॐ सुरास्त्वामभिषिञ्चन्तु बह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथ स्तथा सङ्कर्षणो विभुः ॥ १ ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै निरृतिस्तथा ॥ २ ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ ३ ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ॥ ४ ॥
पञ्चदेवाश्च योगाश्च करणानि च वासशः ।
एतास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥ ५॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
ऋषयो मनवो गावो देवमातर एव च ॥ ६ ॥
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसो गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥७॥
औषधानि च रत्नानि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥ ८ ॥
विश्वब्रह्माण्डदेवाश्च सलोकाः सचराचराः ।।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥९॥॥ इति पौराणिका मन्त्रा ॥
वैदिका मन्त्रा :
ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन तेजसे ब्ब्रह्म वर्चसाया भिषिञ्चामि सरस्वत्यै भैषज्येन । व्विर्यायान्ना द्याया भिषिञ्चामी न्द्रस्येन्द्रियेण ब्बलाय श्रियै यशसेऽ भिषिञ्चामि । ॐ कोसि कतमोसि कस्मै त्वा काय त्वा । सुश्लोक समङ्गल सत्यराजन् ।। ॐ शिरो मे श्रीर्यशो मुखत्विषिः केशाश्चश्मश्रणि ।। राजा में प्राणोऽअमृतᳮ सम्राट् चक्षुर्व्विराट् श्रोत्रम् ॥ ॐ जिह्वा मे भद्रं वामहो मनो मन्यु: स्वराड् भाम ॥ मोदाः प्रमोदाऽअङ्गुलीरङ्गानि मित्रं मे सहक ॥ ॐ ब्बाहू मे ब्बलमिन्द्रिय ᳮ हस्ती मे कर्म व्वीर्यम् । आत्मा क्षत्रमुरो मम ॥ ॐ पृष्टीमें राष्ट्रमुदरम ᳮसौ ग्रीवाश्च श्रोणी । ऊरुऽअरत्नी जानुनी व्विशो मेऽङ्गानि सर्वतः ॥ ॐ नाभिर्मे चित्तं व्विज्ञानं पायुर्मेऽपचित्तिर्भसत् । आनन्द नन्दा वाण्डौ मे भगः सौभाग्यं पसः । जङ्घा भ्यां पद्भ्यां धर्मोऽस्मि व्विशि राजा प्रतिष्ठितः । ॐ प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेष प्रतितिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे प्रतिद्यावापृथिव्योः प्रतितिष्ठामि यजे ॥ ॐ त्रया देवाऽएकादश त्रयस्त्रि ᳮ शाः सुराधसः बृहस्पति पुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मा ॥ ॐ प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजू ᳮ षि सामर्भिः । सामान्न्यृग्भिभरृचः पुरोऽनुवाक्याभिः पुरोऽनुवाक्या याज्याभिर्याज्या व्वषट्कारै र्वषट्काराऽ आहुतिभिराहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा ॥ ॐ द्यौः शान्तिरन्तरिक्ष ᳮशान्तिः पृथिवी शान्ति रापः शान्तिरोषधयः शान्तिः । व्वनस्पतयः ।। शान्ति र्व्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व्व ᳮ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतजीवेम शरदः शत ᳮ शृणुयाम शरदः शतम्प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतम्भूयश्च शरदः शतात् ॥ ॐ स्वस्ति न इन्द्रो व्वद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ॐ विश्वानि देव सवितरितानि परासुव । यद्भद्रं तन्न ऽआसुव । ॐ यथेमां व्वाचकल्याणीमावदानि जनेभ्यः । ब्रह्मराजन्याभ्याᳩशूद्राय चार्याय च स्वाय चारणाय च । प्प्रियो देवानान्दक्षिणायै दातुरिह भूयासमयम्मे कामः समृद्ध्यतामुपमादो नमतु ।
इत्यभिषेक:
तिलककरणम्
ॐ त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषम् यद्देवेषु त्र्यायुषम् तन्नोऽअस्तु त्र्यायुषम् ।
ॐ स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु
गोवाजिहस्तिधनधान्यसमृद्धिरस्तु ।
ऐश्वर्य्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु
सन्तानवृद्धिसहिता हरिभक्तिरस्तु ॥
रक्षाबन्धनम्
येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वां प्रतिबध्नामि रक्षे मा चल मा चल ।।
ॐ त्वं यविष्ठ्य दाशुषो नँ: पाहि शृणुधि गिरः ॥ रक्षा तोकमुतत्क्मना ।।
प्रसादग्रहणं
प्रसादग्रहणम्
तत आचार्यादयो हस्ते प्रसादादिकं गृहीत्वा ' आब्रह्मन् ' इत्याद्याशीर्वादमन्त्रान् पठेयुः
ॐ आब्रह्मन् ब्ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्न्यः शूरऽइषव्योतिव्याधी महारथो जायतान्दोग्ध्र धेनुर्ध्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य व्वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् । ॐ दीर्घायुस्तऽओषधे खनिता यस्मै च त्वा खनाम्यहम् । अथोत्वन्दीर्घायुर्भूत्वा शतवल्शा व्विरोहतात् ॥ ॐ पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुन र्ब्रह्माणो व्वसुनीथ यज्ञैः । घृतेन त्वन्तन्वं व्वर्द्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥ ॐ मनसः काममाकूतिं व्वाचः सत्यमशीय । पशूनाᳩ रूपमन्नस्य रसो यशः श्रीः श्रयताम् ॥ ॐ आयुष्यं वर्चस्यᳮ रायस्पोष मौद्भिदम् । इदᳮ हिरण्यं व्वर्चस्वं जैत्रायाविशता दुमाम् ॥ ॐ न तद्रक्षा ᳩसि न पिशाचास्तरन्ति देवानामोजः प्रथमज ᳮ ह्येतत् । यो बिभर्ति दाक्षायण ᳮ हिरण्य ᳮ स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ।
इत्याशीर्वादपरःसरं ब्राह्मणहस्तेन प्रसादादिकं गृहीत्वा ब्राह्मणान् भोजयित्वा स्वयमपि । सुहृद्युक्तो भुञ्जीत ।।