रूप
यज्ञोपवीत धारण विधिः
पूजन विधिः
पूजा गर्ने
ॐ कारः प्रथमे तन्तौ द्वितीयेऽनिस्तथैव च ।।
तृतीये नागदैवत्यं चतुर्थे सोमदेवता ।।
पञ्चमे पितृदैवत्यं षष्ठे चैव प्रजापतिः ।
सप्तमे मारुतश्चैव अष्टमे सूर्य एव च ।।
सर्वे देवास्तु नवमे इत्येतास्तन्तुदेवता ।
ब्रह्मणोत्पादितं सूत्रं विष्णुना त्रिगुणीकृतम् ।।
रुद्रेण दत्तो ग्रन्थिर्वै सावित्र्या चाभिमन्त्रितम् ।
कृते पद्ममयं सूत्रं त्रेतायां कनकोद्भवम् ।।
द्वापरे राजतं प्रोक्तं कलौ कार्पाससम्भवम् ।।
— हरिहरभाष्ये
धारण विधि
जनै जलमा भीजाई १० फेर गायत्रीले मन्त्री दुईहातले ठिक गरि विनियोग गर्नु ।
ॐ यज्ञोपवीतमिति मन्त्रस्य परमेष्ठी ऋषिः लिङ्गोग्ता देवता त्रिष्टुप्छन्दः यज्ञोपवीतधारणे विनियोगः ।।
धारण गर्ने
ॐ यज्ञोपवीतं परमं पवित्रं,
प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं,
यग्योपवीतं बलमस्तु तेजः ।।
ॐ यज्ञोपवीतमसी यज्ञस्य त्वा यज्ञोपवितेनोपनह्यामी ।।
पूरानो जनै त्याग्ने
अब नया जनै लगाएपछि पुरानो जनै झिक्ने ।
एतावद्दिनपर्यन्तं ब्रह्मत्वं धारितं मया ।
जीर्णत्वात्त्वत्परित्यागो गच्छ सूत्र यथासुखम् ।।
जननाशौचपछि, मृताशौचपछि, र चार महिनापुगेपछि नयाँ जनै फेरेर पूरानो त्याग गर्नु पर्दछ ।
सूतके मृतके चैव गते मासे चतुष्टये ।
नवयज्ञोपवीतानि धृत्वा जीर्णानि सन्त्यजेत् ।।।। इति यज्ञोपवित धारण विधिः ।।