रूप
गणेश पूजाविधिः
हस्ते कुशयवजलान्यादाय
संकल्प गर्ने
ॐ अद्येहेत्यादि (अमुक) कर्म निर्विघ्न परिसमाप्त्यर्थं अमुक कर्माङ्गतया गणेश पूजन महं करिष्ये ।
गणानान्त्वा हे हेरम्ब इत्यादि मन्त्रै रावाहयेत्
आवाहन गरेर पुस्पलिएर नमस्कार गर्ने
ॐ गणानान्त्वा गणपतिं हवामहे प्रियाणान्त्वा प्रियपतिं हवामहे निधीनान्त्वा निधिपतिं हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥
ॐ हे हेरम्ब त्वमेहेहि अम्बिकात्र्यम्बकात्मज ।
सिद्धिबुद्धिपते त्र्यक्ष लक्ष्यलाभयितः पितः ॥
नागस्य नागहार त्वं गणराज चतुर्भुज ।
भूषितैः स्वायुधैर्दिव्यैः पाशाङ्कुशपरस्वधैः ॥
आवाहयामि पूजार्थ रक्षार्थ च मम क्रतो: ।
गृहाण त्वं पूजां क्रतुं च रक्ष माम् ॥
इत्यावाह्य
ॐ भूर्भुवः स्वः गणपतये सिद्धिबुद्धि सहिताय साङ्गया सायुधाय सवाहनाय सपरिवाराय इदमासनं समर्पयामि । ॥
ततः सहस्रशीर्षेत्यादि षोडशमन्त्रैः षोडशोपचारैः पूजयेत्
षोडशोपचार ले पूजा गर्ने
तद्यथा आसनम्, पाद्यम्, अर्घ्यम्, आचमनीयम्, पञ्चामृतम्, शुद्धोदकम्, यज्ञोपवीतम्, वस्त्रम्, चन्दनम्, दूर्वा, अक्षताः, धूप, दीप, नैवेद्यम्, आचमनीयम्, ताम्बूलम्, वस्त्रालङ्कारादि यलब्धम्, दक्षिणाद्रव्यम्, पादवन्दनम् ।
एभिः सम्पूज्य नारिकेलादिफलं सवस्त्रं पुरतः पात्रे निधाय स्तुतिं कुर्यात्
फल फुल दुबो अक्षता लिएर नमस्कार गर्ने
ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ।
इदं फलं प्रियं तुभ्यं अर्पयामि गणाधिप ।
अनेन फलदानेन फलदोऽस्तु सदा मम ।।
वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥