Skip to content

रक्षावन्धन तथा वनस्पति पूजा

यव, कुश, दूर्वा, सर्षप, चन्दन, गोमय, हरिद्रा दधिसहितां रक्षां ताम्रपात्रे निधाय पात्रं स्पृशन् नारायणकवचं पठेत्

जौ, कुश, दूर्वा, सर्सिउ , चन्दन, गोबर, बेसार, दहि हाली फुल अक्षता लिएर रक्षावन्धन छुने

ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां धरणीधरः
याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ॥
वारुण्यां केशवो रक्षेद्वायव्यां मधुसूदनः ।
उत्तरे श्रीधरो रक्षेत् ऐशान्यां तु गदाधरः ॥
ऊर्ध्वं गोवर्धनो रक्षेदधस्तात् तु महेश्वरः ।
एवं दशदिशो रक्षेद्वासुदेवो जनार्दनः ।
यज्ञाग्रे रक्षताच्छङ्ख पृष्ठे वै पद्ममुत्तमम् ॥
वामपार्वे गदा रक्षेद्दक्षिणे तु सुदर्शनः ।
उपेन्द्रः पातु ब्रह्माणमाचार्य पातु वामनः ॥
ऋग्वेदमच्युतो रक्षेद्यजुर्वेदमधोक्षजः ।
कृष्णो रक्षतु सामानमथर्वाणञ्च माधवः ॥
उपविष्टाँश्च विप्राँस्ताननिरुद्धोऽभिरक्षतु ।
यजमानं सपत्नीकं पुण्डरीकाक्ष एव तु ॥
रक्षाहीनं तु यत्स्थानं तत्सर्वं रक्षताद्धरिः ।
वेदमन्त्रैश्च कर्तव्या रक्षा शुभैस्तु सर्षपैः ॥
कृत्वा पोटलिकाम् पूर्वं बध्नीयाद्दक्षिणे करे ।।

रक्षावन्धन पूजा

रक्षावन्धन पूजा गर्ने

ॐ रक्षोहणं वलगहनं वैष्णवी मिदमहन्तं वलग मुत्किरामि यं मे निष्ट्यो यममात्यो निचखाने दमहन्तं वलग मुत्किरामि यं मे समानो यमसमानो निचखाने दमहन्तं वलग मुत्किरामि यं मे सबन्धुर्यमसबन्धुर्निचखाने दमहन्तं वलग मुत्किरामि यं मे सजातो यमसजातो निचखानोत्कृत्याङ्किरामि ॥
स्वराडसिसपत्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्यमित्रहा ॥

ॐ रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवा न्रक्षोहणोवो वलगहनोऽवनयामि वैष्णवान्रक्षोहणो वो वलगहनोऽवस्तृणामि वैष्णवान्रक्षोहणौ वां वलगहनाऽउपदधामि वैष्णवी रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी वैष्णवमसि वैष्णवास्थ ॥

ॐ सप्तऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम प्रमादम् । सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ ।

तत: कलशस्कन्ध प्रदेशे वनस्पति पूजा

वनस्पति पूजा गर्ने

ॐ गणपतये नम: ।
ॐ सूर्याय नम: ।
ॐ देव्यै नम: ।
ॐ शिवाय नम: ।
ॐ विष्णवे नम: ।
ॐ विनायकाय नम: ।
ॐ दूर्गाय नम: ।
ॐ वायव्याय नम: ।
ॐ आकाशाय नम:।
ॐ अश्विनिकुमाराय नम: ।
ॐ सूर्याय नम: ।
ॐ सोमाय नम: ।
ॐ भौमाय नम: ।
ॐ बुधाय नम: ।
ॐ बृहस्पतये नम: ।
ॐ शुक्राय नम: ।
ॐ शनैश्चराय नम: ।
ॐ राहवे नम: ।
ॐ केतवे नम: ।
ॐ ईश्वराय नम: ।
ॐ उमाय नम: ।
ॐ स्कन्दाय नम: ।
ॐ हरये नम: ।
ॐ ब्रह्मणे नम: ।
ॐ इन्द्राय नम: ।
ॐ यमाय नम: ।
ॐ कालाय नम: ।
ॐ चित्रगुप्ताय नम: ।
ॐ अग्नये नम: ।
ॐ अद्भ्यो नम: ।
ॐ भूम्यै नम: ।
ॐ विष्णवे नम: ।
ॐ इन्द्राय नम: ।
ॐ इन्द्राण्यै नम: ।
ॐ प्रजापतये नम:
ॐ सर्पेभ्यो नम: ।
ॐ ब्रह्मणे नम: ।
ॐ इन्द्राय नम: ।
ॐ अग्नये नम: ।
ॐ यमाय नम: ।
ॐ निऋतये नम: ।
ॐ वरुणाय नम: ।
ॐ वायुभ्यो नम: ।
ॐ सोमाय नम: ।
ॐ इशानाय नम: ।
ॐ ब्रह्मणे नम: ।
ॐ अनन्ताय नम: ।
ॐ ध्रुवाद्यष्टवसुभ्यो नम: ।
ॐ धात्रादिद्वादशादित्येभ्यो नम: ।
ॐ विरभद्राद्येकादश रुद्रेभ्यो नम: ।
ॐ गौर्याद्याः शोडश मातृभ्यो नम: ।
ॐ आवाहयाद्याः सप्त मरुद्भ्यो नम: ।
ॐ विनायक ब्रह्मविष्णुरुद्रार्क वनस्पतिभ्यो नम: ।
ॐ आत्मन इष्ट देवताभ्यो नम: ।
ॐ कुलदेवताभ्यो नम: ।
ॐ स्थान देवताभ्यो नम: ।
ॐ ग्रामदेवताभ्यो नम: ।
ॐ वास्तुदेवताभ्यो नम: ।
ॐ सर्वेभ्यो देवेभ्यो नम: ।

यथा मिलितो पचारैः पञ्चोपचारैः / षोडशोपचारैर्वा पूजयेत्

पञ्चोपचार पनि वनस्पति देवताहरुलाई चडाउने र प्रार्थना गर्ने

ॐ सूर्य: सौर्यमथेन्दुरुच्चपदविं सन्मंगलं मङ्गल: ।
सद्बुद्धिंच बुधो गुरुश्च गुरुतां शुक्र: सुखं शं शनि: ।
राहुर्बाहुबलं करोतु सततं केतु: कुलस्योन्नतिं ।
नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला: ग्रहा: ।।

ॐ ब्रह्मामुरारिस्त्रीपुरान्तकारी,
भानुशशी भूमिसूतो बुधश्च ।
गुरुश्च शुक्र: शनिराहुकेतव:
सर्वे ग्रहा: शान्तिकरा भवन्तु ।।

नेपाली–संस्कृत पूजा विधि र ग्रन्थ सङ्ग्रह