Skip to content

हवन विधिः

होमसङ्कल्प :

कुशादिकमादाय

कुश लेर पानि समाउने

ॐ तत्सत् ॐ विष्णुः ३ इत्यादिदेशकालादीन् सङ्कीर्त्य (अमुक) गोत्रस्य (अमुक) प्रवरस्य (अमुक) शाखान्तर्गत (अमुक) वेदाध्यायिनो (अमुक) शर्मणो वर्मणो, गुप्तस्य दासस्य वा मम (अमुक) कर्मणि-------------------
आधाराज्यभाग पञ्चवारुणि होम पूर्वक प्रधानभूतेभ्यो देवेभ्यो गणपत्यादि पञ्चायतनेभ्यो विनायकादि पञ्चलोकपालेभ्यः सूर्यादिनवग्रहेभ्य इश्वराद्यधिदेवेभ्यो ऽग्न्यादिप्रत्यधिदेवेभ्य इन्द्रादिदशदिकपालेभ्यो ध्रुवाद्यष्ट वसुभ्यो धात्रादिद्वादशदित्येभ्यो वीरभद्राद्येकादशरुद्रभ्यो गौर्यादिषोडशमातृभ्य आवहादिसप्तमरुद्भ्यो विनायक ब्रह्म विष्णु रुद्रार्क वनस्पतिभ्यः प्रधानदेवेभ्यः तथा चतुः स्वस्तिभ्यः पयः पञ्चभ्यः षड्विष्णुभ्यो द्वादश देवताभ्योः द्वादशशान्तिभ्यः षट्प्रातर्भ्यः षड्वातेभ्य स्त्र्यनडुभ्यः पञ्चभगेभ्यः पन्चेन्द्रियेभ्यो पञ्च वरुणेभ्यो गायत्र्यै सावित्र्यै सरस्वत्यै गृहमात्रे अन्नपूर्णायै महालक्ष्म्यै महारिष्टविनाशिन्यै चण्ड्यै द्यौराल्यै वास्तुदेवाय भूमिदेवाय गौडुदेवाय क्षेत्रपालाय ग्रामदेवाय स्वर्गेन्द्राय पाताल वासुकिभ्यो मित्रलोक पालाय मान्धात्रे तीर्थराजाय व्रतराजाय पुनर्दिक्पालेभ्य तिथिव्भ्यो नक्षत्रेभ्यो वारेभ्यः करणेभ्यो वातेभ्यो मेघेभ्यः समुद्रेभ्यो नदीभ्य इष्टदेवेभ्यः कुलदेवेभ्यः स्थापितदेवेभ्यो भैरवाय भैरव्यै विन्ध्यवासिन्यै स्थान विशेषाधिपतिदेवताभ्यः सर्वदेवेभ्यः सर्वहोम पुरणार्थेभ्यः पञ्चपाण्डवेभ्यो भीमसेनाय पितृभ्यो वैश्वानराय तथोत्तराङ्गत्वेन भूर्भुवः स्वः । अग्निवरुण सवितृ-विष्णु-विश्वेदेव-मरुत्स्वर्क-प्रजापति-स्विष्टकृद्देवेभ्यश्च इदमाज्यादि द्रव्यहोमं यथासंख्येन ब्राह्मणद्वारा अहं करिष्ये ।

।। इति होमसङ्कल्पः ।।

ततः उपयमनकुशान् वामहस्ते कृत्वोत्तिष्ठन् प्रजापतिं मनसा ध्यायन् समिद्धतमेऽग्नौ इति मन्त्रेण

उपयमन लिएर पैले राखिएको तिनओटा समिधा घिउमा चोबेर होम्ने

ॐ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ।।

पूर्वस्थापितास्तिस्रः समिधः प्रक्षिप्योपविश्य । पृष्टो दिवीति मन्त्रेण दक्षिणचुलुकेन सपवित्र प्रोक्षण्युदक मादाय

ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽओषधीराविवेश । वैश्वानरः सहसा पृष्टोऽअग्निः स नो दिवा सरिषस्पातु नक्तम् ॥

सुसमिद्धायेतिमन्त्रेण तज्जलेन प्रदक्षिणक्रमेणाग्निं पर्युक्ष्य

ॐ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे ॥

पातितदक्षिणजानुः कुशेन ब्रह्मणान्वारब्धः समिद्धतमेऽग्नौ स्रुवेणाज्याहुतीर्जुहोति तत्राघारादारभ्य द्वादशाहुतिषु तत्तदाहुत्यनन्तरं स्रुवावस्थितहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः ।

प्रजापत्यादिहोम

मनले प्रजापतिको ध्यान गर्ने

ॐ प्रजापतय इतिप्रजापतिऋषिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः । ( मनसैव)

ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । प्रोक्षणीपात्रेऽपि ।

आघारौ = अग्निमा घिउ छर्कनु ।

ॐ इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्द इन्द्रो देवता आज्यहोमे विनियोगः ।

इन्द्राय स्वाहा । इदमिन्द्राय न मम । (इति आघारौ ) प्रोक्षणीपात्रेऽपि ।

ॐ अग्नय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दो ऽग्निर्देवता आज्यहोमे विनियोगः ।

ॐ अग्नये स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।

ॐ सोमायेति प्रजापतिऋषिस्त्रिष्टुप्छन्दः सोमो देवता आज्यहोमे विनियोगः ।

ॐ सोमाय स्वाहा । इदं सोमाय न मम । (इति आज्यभागौ) प्रोक्षणीपात्रेऽपि ।

ॐ भूर्भुवः स्वरिति महाव्याहृतीनां प्रजापति ऋषि रग्निवायसूर्या देवता गायत्र्युष्णिगनुष्टुभश्छदांसि अग्न्याधाने विनियोगः ।

ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि ।
एता महाव्याहृतयः ।

पञ्चवारुणिहोम :

ॐ त्वन्नोऽअग्न इति वामदेवऋषिरग्नीवरुणौ देवते त्रिष्टुप्छन्दः प्रायश्चित्तहोमे विनियोगः ।

ॐ त्वन्नोऽअग्ने व्वरुणस्य विद्वान् देवस्य हेडो ऽअवयासिसीष्ठाः । यजिष्ठो व्वह्नितमः शोशुचानो व्विश्वा द्वेषाᳩ सि प्रमुमुग्ध्यस्मत्स्वाहा ।

इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि ।

ॐ स त्वन्न इति वामदेवऋषिस्त्रिष्टुप्छन्दः अग्नीवरुणौ देवते आज्यहोमे विनियोगः ।

ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्या ऽउषसो व्युष्टौ । अवयव नो व्वरुणᳮ रराणो व्वीहि मुडीकᳮ सुहवो नधि स्वाहा ॥

इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि ।

ॐ अयाश्चाग्न इति वामदेव ऋषिस्त्रिष्टुप्छन्दोऽ ग्निर्देवता प्रायश्चित्तहोमे विनियोगः ।

ॐ अयाश्चाग्ने स्यनभि शस्तिपाश्च सत्य मित्त्व मयाऽसि । अया नो यज्ञं व्वहास्यया नो धेहि भेषज ᳮ स्वाहा ॥

इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।

ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः सविता विष्णु र्विश्वेदेवा मरुतः स्वर्का देवता प्रायश्चित्त होमे विनियोगः ।

ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा व्वितता महान्तः । तेभिर्नोऽअद्य सवितोत व्विष्णुर्व्विश्वेमुञ्चन्तु मरुतः स्वर्का: स्वाहा ॥

इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम । प्रोक्षणीपात्रेऽपि ।।

ॐ उदुत्तममिति शुनः शेप ऋषिस्त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः ।

ॐ उदुत्तमं वरुण पाशमस्मदवाधमं व्विमध्यमᳮस्रथाय । अथा व्वयमादित्यव्रते तवा नागसोऽअदितये स्याम स्वाहा।।

इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि ।
एताः प्रायश्चित्तसज्ञकाः । इति पञ्चवारुणिहोमः ।

गणेशो भास्करो देवी शिवो विष्णुश्च पञ्चमः ।
पाञ्चायतननामानि कथिताः पञ्चदेवताः ।।१।।
विनायकस्तथा दुर्गा वायुराकाश एव व ।
नासत्यौ चेति पञ्चैते लोकपाला प्रकीर्तिताः ।।२।।
सूर्यः सोमश्च भौमश्च बुधो जीवश्च भार्गवः ।
शनि राहुश्च केतुश्च कथिताश्च नवग्रहाः ।।३।।
ईश्वरश्च उमा स्कन्धो विष्णुर्ब्रह्मा शचीपतिः ।
यमः कालश्चित्रगुप्त इत्येता अधिदेवता ।।४।।
अग्निरापो धरा विष्णुरिन्द्र ऐन्द्रि प्रजापतिः ।
सर्पा ब्रह्मा क्रमात्प्रोक्ता नव प्रत्यधिदेवताः ।।५।।
इन्द्राग्नी यमनिर्ऋती वरुणो मरुतो विधुः ।
ईशो ब्रह्मा तथानन्तो दिक्पालाः दश कीर्तिताः ।।६।।
ध्रुवादिष्टवसुर्ज्ञेयो धात्रादित्यास्तु द्वादश ।
वीरभद्राद्येकादश गौर्यादिमातृषोडश ।।७।।
आवाहादिमरुत्सप्त विनायकविधी हरिः ।
रुद्रश्चार्कस्तथा प्रोक्तो वनस्पतिः क्रमेण हि ।।८।।
चतुः स्वस्तिः पयः पञ्च षड्विष्णुर्देव द्वादश ।
शान्तिर्द्वादश षट्प्रातः षड्वातास्तु क्रमेण हि ।।९।
अनडुत्संज्ञको ज्ञेयो होमकर्मणि वै ध्रुवम् ।
पञ्चभगेन्द्रियाः पञ्च वरुणः पञ्च एव च ।।१०।।
गायत्री चैव सावित्री वाग्देवी गृहमातृकाः ।
अन्नपूर्णा महालक्ष्मी महारिष्टविनाशिनी ।।११।।
चण्डि द्यौराली विज्ञेया वास्तुभुम्यस्तथैव च ।
गैडुश्च क्षेत्रपालश्च ग्रामदेवास्ततः परम् ।।१२।।
स्वर्गेन्द्रो वासुकिश्चैव मित्रलोकस्तथैव च ।
मान्धाता तीर्थराजश्च व्रतराजस्ततः परम् ।।१३।।
पुनर्दिक्पाला ज्ञेयास्तिथिनक्षत्रयोगकाः ।
वारश्च करणश्चैव वायुमेघसमुद्रकाः ।।१४।।
नदीष्टकुलदेवाश्च स्थापिता देवताः क्रमात् ।
भैरवो भैरवी विन्ध्यवासिनी स्थानदेवता ।।१५।।
एषोह सर्वदेवाश्च शुक्रज्योतिश्तथैव च ।
पाण्डवाः पितरश्चैव वैश्वानरः क्रमेण च ।।१६।।
पूर्णपात्रं ततो दद्याद्बहिर्होमस्ततः परम् ।
गोभूरत्नहिरण्यादि रौप्यवस्त्राणि चैव हि ।।१७।।
देयानि द्विजमुख्येभ्यो यजमानै र्विशेषतः ।

इति होमसूत्राणि ।

प्रधानदेवताहोम :

गणानान्त्वा गणपति ᳮ हवामहे प्रियाणान्त्वा प्रियपति ᳮहवामहे निधीनान्त्वा निधिपति ᳮहवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ स्वाहा ॥

इदं गणपतये न मम ॥

ॐ आ कृष्णेन रजसा व्वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्य येन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥

इदं सूर्याय न मम ।।

ॐ देवीर्द्वारऽइन्द्रᳮ सङ्घाते व्वीड्वीर्या मन्नवर्ध यन् । आवत्सेन तरुणेन कुमारेण च मीवतां पार्वाण ᳮरेणुककाटन्नुदन्तां वसुवनेव्वसुधेयस्य व्यन्तु यज स्वाहा ॥

इदं देव्यै न मम ।

ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय च शिवतराय च स्वाहा ।।

इदं शिवाय न मम ।
अत्र प्रणीतोदकस्पर्शः ।

ॐ विष्णो रराटमसि व्विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि व्विष्णोर्धुवोसिव्वैष्णवमसि विष्णवे त्वा स्वाहा ।

इदं विष्णवे न मम ।
इति पाञ्चायनाः ।

पञ्चलोकपाला :

ॐ गणानान्त्वा गणपति ᳮहवामहे प्रियाणान्त्वा प्रियपति ᳮ हवामहे निधीनान्त्वा निधिपति ᳮहवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा ।

इदं विनायकाय न मम ।

ॐ अम्बे अम्बिकेम्बालिके न मानयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ।। स्वाहा ॥

इदं दुर्गायै न मम ।

ॐ व्वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये स्वाहा ।।

इदं वायवे न मम ।

ॐ ऊर्ध्वाऽअस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीᳩष्यग्नेः । द्युमत्तमाः सुप्रतीकस्य सूनोः ।। स्वाहा ।।

इदमाकाशायन मम ।

ॐ अश्विनोर्भैषज्येन तेजसे ब्रह्म वर्चसाया भिषिञ्चामि सरस्वत्यै भैषज्येन व्वीर्यायान्ना द्याया भिषिञ्चामीन्द्रस्येन्द्रियेण ब्बलाय श्रियै यशसे भिषिञ्चामि ।। स्वाहा ।।

इदमश्विनीकुमाराभ्यां न मम ।
इति पञ्चलोकपालाः ।

नवग्रहा:

ॐ आकृष्णेन रजसा व्वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ।। स्वाहा ॥

इदं सूर्याय न मम ।

ॐ इमन्देवाऽअसपत्न ᳮ सुवध्वं महते क्षत्राय महते ज्यैष्ठयाय महते जानराज्यायेन्द्रस्येन्द्रियाय । इदममुष्य पुत्रममुष्यै पुत्रमस्यै व्विशऽएष वोमी राजा सोमोऽस्माकं ब्राह्मणाना ᳮ राजा ।। स्वाहा ॥

इदं सोमाय न मम ।

ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । अपाᳩरेताᳩ सिजिन्वति ।। स्वाहा ।।

इदं भौमाय न मम ।

ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सᳮसृजेथामयञ्च । अस्मिन्त्सघस्थेऽअद्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत स्वाहा ॥

इदं बुधाय न मम ।

ॐ बृहस्पतेऽ अति यदर्योऽअर्हाद्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसऽऋतप्रजात तदस्मासु द्रविणन्धेहि चित्रम् । उपयामगृहीतोऽसि बृहस्पतये त्वैषते योनि र्बृहस्पतये त्वा स्वाहा ॥

इदं बृहस्पतये न मम ।

ॐ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं व्विपानᳮ शुक्र मन्धसऽ इन्द्रस्येन्द्रियमिदं पयोमृतं मधु स्वाहा ॥

इदं शुक्राय न मम ।

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः स्वाहा ।।

इदं शनैश्चराय न मम

ॐ कया नश्चित्रऽआभुवदूती सदावृधः सखा । कया शचिष्ठया वृता स्वाहा ॥

इदं राहवे न मम ।

ॐ केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः स्वाहा ।।

इदं केतवे न मम ॥
इति नवग्रहाः ।

अधिदेवता

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वा रुकमिव ब्बन्धनान्मृत्योर्मुक्षीय मामृतात् ।। स्वाहा ॥

इदमीश्वराय न मम । अत्र प्रणीतोदकस्पर्शः

ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मऽ इषाण स्वाहा ॥

इदमुमायै न मम ।

ॐ यदक्रन्दः प्रथमं जायमानऽउद्यन्त्समुद्रादुतवा पुरीषात् । श्येनस्य पक्षा हरिणस्य ब्बाहूऽउपस्तुत्यं महि जातं तेऽअर्वन् स्वाहा ।।

इदं स्कन्दाय न मम ।

ॐ विष्णो रराटमसि व्विष्णोः श्नप्त्रेस्थो व्विष्णोः स्यूरसि व्विष्णोर्ध्रुवोसि व्वैष्णवमसि व्विष्णवे त्वा स्वाहा ॥

इदं विष्णवे न मम ।

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेनऽ आवः ।। स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च व्विवः स्वाहा ॥

इदं ब्रह्मणे न मम ।

ॐ त्रातारमिन्द्रमवितारमिन्द्र ᳮहवे हवे सुहव ᳮशूरमिन्द्रम ।। ह्वयामि शक्रं पुरुहूतमिन्द्र ᳮ स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ।।

इदमिन्द्राय न मम ।

ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे । देवस्त्वा सविता मध्वानक्तु पृथिव्याः सᳮ स्पृशस्पाहि । अर्चिरसि शोचिरसि तपोऽसि स्वाहा ॥

इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।

ॐ कार्षिरसि समुद्रस्य त्वा क्षित्याऽउन्नयामि । समापोऽ अद्भिरग्मत समोषधीभिरोषधीः स्वाहा ।।

इदं कालाय न मम । अत्र प्रणीतोदकस्पर्शः ।

ॐ इन्धानास्त्वा शत ᳮ हिमा द्युमन्तᳮ समिधीमहि । वयस्वन्तो वयस्कृत ᳮसहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनमदब्धासोऽ अदाभ्यम् । चित्राव्वसो स्वस्ति ते पारमशीय स्वाहा ॥

इदं चित्रगुप्ताय न मम । अत्र प्रणीतोदकस्पर्शः ।
इत्यधिदेवताः ।

प्रत्यधिदेवता:

ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे । देवां२ऽआसादयादिह स्वाहा ॥

इदमग्नये न मम ।

ॐ अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे । गर्भे सञ्जायसे पुनः स्वाहा ॥

इदमद्भ्यो न मम ।

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः स्वाहा ॥

इदं भूम्यै न मम ।

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाᳩसुरे स्वाहा ॥

इदं विष्णवे न मम ।

ॐ इन्द्रऽआसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुर ऽएतु सोमः । देवसेनानामभिभञ्जतीनाञ्जयन्तीनां मरुतो यन्त्वग्रम् स्वाहा ॥

इदमिन्द्राय न मम ।

ॐ अदित्यै रास्नासीन्द्राण्याऽउष्णीषः । पूषासि घर्माय दीष्व स्वाहा ॥

इदमिन्द्राण्यै न मम ।

ॐ प्रजापते न त्वदेतान्यन्यो व्विश्वा रूपाणि परिता बभूव । यत्कामास्ते जुहुमस्तन्नोऽअस्तु व्वयᳮ स्याम पतयो रीणाम् स्वाहा ॥

इदं प्रजापतये न मम ।

ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । येऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहा ॥

इदं सर्पेभ्यो न मम ।

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेनऽआवः सबुध्न्या उपमा अस्य व्विष्ठाः । सतश्च योनिमसतश्च व्विवः स्वाहा ॥

इदं ब्रह्मणे न मम ।
इति प्रत्यधिदेवताः ।

दशदिक्पाला :

ॐ त्रातारमिन्द्रमवितारमिन्द्र ᳮहवे हवे सुहव ᳮशूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्र ᳮ स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥

इदमिन्द्राय न मम ।

ॐ अग्निन्दुतं पुरो दधे हव्यवाहमुपब्रुवे । देवाँ २ऽआसा दयादिह स्वाहा ॥

इदमग्नये न मम ।

ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे । देवस्त्वा सविता मध्वानक्तु पृथिव्याः सᳮस्पृश स्पाहि । अर्चिरसि शोचिरसि तपोऽसि स्वाहा ॥

इदं यमाय न मम ।

ॐ असुन्वन्तमयजमानमिच्छस्तेनस्येत्या मन्विहि तस्करस्य । अन्यमस्मदिच्छ सा तऽइत्यानमो देवि निर्ऋते तुभ्यमस्तु स्वाहा ॥

इदं निऋतये न मम । अत्र प्रणीतोदकस्पर्शः ।

ॐ वरुणस्योत्तम्भनमसि व्वरुणस्य स्कम्भस र्जनीस्थो व्वरुणस्य ऋतसदन्यसि वरुणस्यऽ ऋतसदनमसि व्वरुणस्यऽऋत सदनमासीद स्वाहा ॥

इदं वरुणाय न मम ।

ॐ व्वायो ये ते सहसिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये स्वाहा ।।

इदं वायवे न मम ।

ॐ सोमो धेनु ᳮसोमोऽ अर्वन्तमाशुᳮ सोमो व्वीरं कर्मण्यन्ददाति । सादन्यं विदथ्यᳮसभेयं पितृश्रवणं यो ददाशदस्मै स्वाहा ॥

इदं सोमाय न मम ।

ॐ तमीशान- ञ्जगतस्तस्थुषस्प- तिन्धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये स्वाहा ॥

इदमीशानाय न मम । अत्र प्रणीतोदकस्पर्शः ।

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेनऽ आवः । सबुध्न्याऽउपमाऽअस्य व्विष्ठाः सतश्च योनिमसतश्च व्विवः स्वाहा ॥

इदं ब्रह्मणे न मम ।

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिᳮसर्वतस्पृत्वा त्यतिष्ठदशाङ्गुलं स्वाहा ॥

इदमनन्ताय न मम ।
इति दशदिक्पालाः ।

अष्टवसवः

ॐ सुगा वो देवाः सदनाऽअकर्म य आजम्मेदᳮ सवनञ्जुषाणाः ।। भरमाणा व्वहमाना हवीᳮष्यस्मे धत्त व्वसवो व्वसूनि स्वाहा ।।

ध्रुवाद्यष्टवसभ्यो न मम ।

द्वादशादित्या :

ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः आवोर्व्वाची सुमतिर्ववृत्याद ᳮ होश्चिद्या ।व्वरिवोव्वित्तरासत् स्वाहा ॥

इदं धात्रादिद्वादशादित्येभ्यो न मम ।

एकादशरुद्राः

ॐ य एतावन्तश्च भूयाᳩसश्च दिशो रुद्रावितस्थिरे । तेषाᳩसहस्रयोजनेऽवधन्वानितन्मसि स्वाहा ॥

इदं वीरभद्राद्येकादशरुद्रेभ्यो न मम । अत्र प्रणीतोदकम्पर्शः ।

षोडशमातर :

ॐ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी ब्बभूवुषि सहस्राक्षरा परमे व्योमन् स्वाहा ॥

इदं गौर्यादिषोडशमातृभ्यो न मम ।

आवहादिसप्तमरुतः

ॐ मरुतो यस्य हि क्षये पाथा दिवो व्विमहसः । ससुगोपातमो जनः स्वाहा ॥

इदमावहादि सप्तमरुद्भ्यो न मम ।

विनायकादिषट्

ॐ गणानान्त्वा गणपतिᳮ हवामहे प्रियाणान्त्वा प्रियपति ᳮ हवामहे निधीनान्त्वा निधिपतिᳮ हवामहे व्वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा ।।

इदं विनाकाय न मम ।।

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेन ऽआवः ।। स बुध्न्या ऽउपमाऽ अस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ।।

इदं ब्रह्मणे न मम ।

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाᳩसुरे स्वाहा ॥

इदं विष्णवे न मम ।

ॐ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो व्वीरान्नुद्र भामिनो व्वधीर्हविष्मन्तः सदमित्वा हवामहे स्वाहा ।।

इदं रुद्राय न मम । अत्र प्रणीतोदकस्पर्शः ।

ॐ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं मऽआसन् । अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम स्वाहा ॥

इदमर्काय न मम ।

ॐ व्वनस्पते वीड्वड्गो हि भूयाऽ अस्मत्सखा प्रतरणः सुवीरः । गोभिः सन्नद्धो ऽअसि वीडय स्वास्थाता ते जयतु जेत्वानि स्वाहा ।

इदं वनस्पतये न मम ।

विशेषकर्म

अत्र विशेशोद्देश्याभिमतम् कर्म कृत्वा तत्पश्चादेवा तदुत्तरम् कर्म कुर्वान्ति

जुन कर्मको लागि अग्निस्थापना गरेको हो त्यसलाई पूरागर्ने र विशेष देवता हरुलाई पनि हवन गरिसक्ने ।

चतु: स्वस्त्यादी होम

ॐ स्वस्ति न इन्द्रो व्वृद्धस्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽ अरिष्टनेमिः स्वस्ति नो व्वृहस्पतिर्दधातु स्वाहा ।।

इदं चतुः स्वस्तिभ्यो न मम ।

ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् स्वाहा ॥

इदं पयः पञ्चभ्यो न मम ।

ॐ विष्णोरराटमसि विष्णोः श्नप्त्रेस्थो व्विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि वैष्णवमसि व्विष्णवे त्वा स्वाहा ॥

इदं षड्विष्णुभ्यो न मम ।

ॐ अग्निर्देवता व्वातो देवता सूर्यो देवता चन्द्रमा देवता व्वसवो देवता रुद्रादेवता दित्यादेवता मरुतो देवता विश्वेदेवा देवता ब्बृहस्पतिर्देवतेन्द्रो देवता व्वरुणो देवता स्वाहा ।।

इदं द्वादशदेवेभ्यो न मम ।

ॐ द्यौः शान्तिरन्तरिक्षᳮ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्बह्म शान्तिः सर्व ᳮ शान्तिः शान्तिरेव शान्तिः सा मा शान्ति रेधि स्वाहा ।।

इदं द्वादशशान्तिभ्यो न मम ।

ॐ प्रातरग्निं प्रातरिन्द्र ᳮ हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।। प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्र ᳮ हुवेम स्वाहा ।।

इदं षट्प्रातेभ्यॊ न मम ।

ॐ समुद्राय त्वा व्वाताय स्वाहा सरिराय त्वा व्वाताय स्वाहा अनाधृष्याय त्वा व्वाताय स्वाहा प्रतिधृष्याय त्वा व्वाताय स्वाहा अवस्यवे त्वा व्वाताय स्वाहा शिमिदाय त्वा वाताय स्वाहा ॥

इदं षट्वातेभ्यो न मम ।।

ॐ अनड्वान्वयः पक्तिश्छन्दो धेनुर्वयो जगती छन्दस्त्र्यवि र्वय स्त्रिष्टुप्छन्दो दित्यवाड्वयो विराट्छन्दः पञ्चाविर्वयो गायत्रीछन्दस्त्रिवत्सो वयऽ उष्णिक्छन्दस्तुर्यवाड्वयो ऽनुष्टुप्छन्दो । लोकन्ताऽ इन्द्रम् स्वाहा ।।

इदं त्र्यनडुभ्यो न मम ।

ॐ भगऽएव भगवाँऽअस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भगः सर्व्वऽइज्जोहवीति स नो भगः पुरऽएता भवेह स्वाहा ।।

इदं पञ्चभगेभ्यो न मम ।

ॐ प्राणाय स्वाहा पानायस्वाहा व्यानायस्वाहा चक्षुषेस्वाहा श्रोत्रायस्वाहा व्वाचेस्वाहा मनसेस्वाहा ।

इदं पञ्चेन्द्रियेभ्यो न मम ।

ॐ व्वरुणस्योत्तम्भनमसि व्वरुणस्य स्कम्भसर्जनी स्थो व्वरुणस्य ऋतसदन्यसि व्वरुणस्यऽऋत सदनमसि व्वरुणस्यऽ ऋतसदनमासीद स्वाहा ॥

इंद पञ्चवरुणेभ्यो न मम ।

ॐ गायत्री त्रिष्टुब्जगत्य नुष्टुप्पङ्क्त्या सह । व्वृहत्युष्णिहा ककुप्सूचीभिः शम्यन्तुत्वा स्वाहा ॥

इदं गायत्र्यै न मम ।

ॐ उपयामगृहीतोऽसि सावित्रोऽसि च नो धास्चनोधा ऽअसि चनो मयि धेहि । जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे स्वाहा ॥

इदं सावित्र्यै न मम ।

ॐ सरस्वती योन्याङ्गर्भमन्तरश्विभ्यां पत्नी सुकृतं विभर्ति । अपाᳩ रसेन व्वरुणो न साम्नेन्द्र ᳮश्रियै जनयन्नप्सु राजा स्वाहा ।

इदं सरस्वत्यै न मम ।

ॐ गृहमा बिभीतमाव्वे पध्वमूर्जं व्विभ्रत ऽएमसि । ऊर्जं व्विभ्रद्वः सुमनाः सुमेधा गृहानैमि मनसा मोदमानः स्वाहा ॥

इदं गृहमात्रे न मम ।

ॐ अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रदातारन्तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे स्वाहा ॥

इदमन्नपूर्णायै न मम ।

ॐ श्रीश्चते लक्ष्मीश्च पत्क्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्म ऽइषाण स्वाहा ॥

इदं महालक्ष्म्यै न मम ।

ॐ देवीर्द्वारऽइन्द्र ᳮ सङ्घाते व्वीड्वीर्यामन्नवर्धयन् । आवत्सेन तरुणेन कुमारेण च मीवता पार्वाणᳮ रेणुककाटं नुदन्तां व्वसुवने व्वसुधेयस्य व्व्यन्तु यज स्वाहा ॥

इदं महारिष्टविनाशिन्यै न मम ।

ॐ अम्बेऽअम्बिकेम्बालिके न मानयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् स्वाहा ।

इदं चण्डयै न मम ।

ॐ द्यौरासीत्पूर्वचित्तिरश्वऽआसीद्ब्बृहद्वयः । आविरासीत् पिलिप्पिला रात्रिरासीत् पिशङ्गिला स्वाहा ॥

इदं द्यौराल्यै न मम ।

ॐ व्वसोः पवित्रमसि शतधारं व्वसोः पवित्रमसि सहस्रधारम् । देवस्त्वा सविता पुनातु व्वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः स्वाहा ॥

इदं वास्तुदेवाय न मम ।।

ॐ भुम्याऽआखुनालभतेन्तरिक्षाय पाङ्ग्रान् दिवे कशान्दिग्भ्यो नकुलान्बभ्रुकानवान्तरदिशाभ्यः स्वाहा ॥

इदं भूमिदेवाय न मम ।

ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च स्वाहा ॥

इदं गैडुदेवाय त मम ।

ॐ क्षेत्रस्य योनिरसी क्षत्रस्यनाभिरसी ।। मात्वाहिं सीन्मामाहिं सी: ।। स्वाहा ।

इदं क्षेत्रपालाय न मम ।

ॐ यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यदेनश्चकृमा व्वयमिदन्तदवयजामहे स्वाहा ।

इदं ग्रामदेवाय न मम ।

ॐ त्रातारमिन्द्रमवितारमिन्द्र ᳮ हवे हवे सुहवᳮ शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ।।

इदं स्वर्गेन्द्राय न मम ।

ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । येऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहा ॥

इदं पातालवासुकिभ्यो न मम ।

ॐ मित्रोन एहि सुमित्रधऽइन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्त ᳮ स्योनः स्योनम् । स्वानब्भ्राजाङ्घारे ब्बम्भारे हस्त सुहस्त कृशानवे ते व्वः सोमक्रयणास्तान्रक्षध्वं मा व्वो दभन् स्वाहा ॥

इदं मित्रलोकपालाय न मम ।

ॐ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम् ॥ व्वर्धमान ᳮ स्वे दमे स्वाहा ॥

इदं मान्धात्रे न मम ।।

ॐ ये तीर्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषा ᳩ सहस्रयोजनेवधन्वा नितन्मसि स्वाहा ।।

इदं तीर्थराजाय न मम ।

ॐ व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् । दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते स्वाहा ॥

इदं व्रतराजाय न मम ।

ॐ प्राच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्दीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा स्वाहार्वाच्यै दिशे स्वाहा ।

इदं पुनर्दिक्पालेभ्यो न मम ।

ॐ अग्नेः पक्षति र्वायोर्नि पक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यादित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताᳩ सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातु र्दशमीन्द्रस्यैकादशी व्वरुणस्य द्वादशी यमस्य त्रयोदशी स्वाहा ॥

इदं तिथिभ्यो न मम ।

ॐ नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऋतुभ्यः स्वाहार्त्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्या ᳩ स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा व्विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा व्वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॥

इदं नक्षत्रेभ्यो न मम ।

ॐ योगे योगे तवस्तरं वाजे वाजे हवामहे । सखायऽ इन्द्रमूतये स्वाहा ॥

इदं योगेभ्यो न मम ।

ॐ आदित्यङ् गर्भम्पयसा समङ्धि सहस्रस्य प्रतिमां विश्वरूपम् । परिवृङ्धि हरसा माभिम ᳮस्थाः शतायुषं कृणुहि चीयमानः स्वाहा ॥

इदं वारेभ्यो न मम ।

ॐ भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमा क्षभिर्य जत्राः । स्थिरैरङ्गैस्तुष्टुवाᳩ सस्तनू भिर्व्यशेमहि देवहितं य्यदायुः स्वाहा ॥

इदं करणेभ्यो न मम ।

ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोम पीतये स्वाहा ॥

इदं वातेभ्यो न मम ।

ॐ वाताय स्वाहा धूमाय स्वाहाऽब्भ्राय स्वाहा मेघाय स्वाहा व्विद्योतमानाय स्वाहा, स्तनयते स्वाहावस्फूर्जते स्वाहा व्वर्षते स्वाहावर्षते स्वाहोग्रं वर्षते स्वाहा शीघ्रं वर्षते स्वाहोद्गृह्णते स्वाहोद्गृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्पुष्वाभ्यः स्वाहा - ह्वादिनीभ्यः स्वाहा नीहाराय स्वाहा ॥

इदं मेघेभ्यो न मम ।

ॐ समुद्रं गच्छ स्वाहान्तरिक्षं गच्छ स्वाहा देवᳮ सवितारं गच्छ स्वाहा मित्राव्वरुणौ गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा छन्दाᳩसि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा यज्ञं गच्छ स्वाहा सोमं गच्छ स्वाहा दिव्यं नभो गच्छ स्वाहाऽग्निं व्वैश्वा नरङ्गच्छ स्वाहा मनो मे हार्दिं यच्छ दिवं ते धूमो गच्छतु स्वर्ज्योतिः पृथिवीं भस्मनाऽऽपृण स्वाहा ॥

इदं समुद्रेभ्यो न मम ।

ॐ नदीभ्यः पौञ्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्व्रात्यं प्रयुग्भ्यऽउन्मत्तᳮसर्पदेवजनेभ्यो प्रतिपदमयेभ्यः कितवमीर्यतावाऽअकितवं पिशाचेभ्यो व्विदलकारीं यातुधानेभ्यः कण्टकीकारीम् स्वाहा ॥

इदं नदीभ्यो न मम ।

ॐ इष्टो जज्ञो भृगुभिराशीर्दा व्वसुभिः । तस्य नऽइष्टस्य प्रीतस्य द्रविणेहागमेः स्वाहा ॥

इदमिष्टदेवाय न मम ।

ॐ कुलायिनी घृतवती पुरन्धिः स्योने सीद सदने पृथिव्याः । अभित्वा रुद्रा व्वसवो गृणन्त्विमा व्ब्रह्म पीपिहि सौभगायाश्विनाऽध्वर्यू सादयतामिह त्वा स्वाहा ॥

इदं कुलदेवाय न मम ।

यत्र स्थापितो यो देव स्तं तत्तन्मन्त्रेण होमयेत्

स्थापना गरेका देवता हरुलाइ हवन दिने

नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय शिवतराव च स्वाहा ।।

इदं भैरवाय न मम ।

ॐ देवीर्द्वारऽइन्द्र ᳮ सङ्घाते व्वीड्वीर्यामन्नवर्धयन् । आवत्सेन तरुणेन कुमारेण च मीवता पार्वाणᳮ रेणुककाटं नुदन्तां व्वसुवने व्वसुधेयस्य व्व्यन्तु यज स्वाहा ॥

इदं भैरव्यै न मम ।

ॐ अम्बेऽअम्बिकेम्बालिके न मानयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् स्वाहा ॥

इदं विन्ध्यवासिन्यै न मम ।

तिर्थ धाम इत्यादि होम

यत्र स्थानविशेषाधिष्ठितो यो देवी देवो वा तत्तनमन्त्रेण होमयेत् ।

हवन गरिएको स्थानको देवालय इत्यादिलाई पनि हवन दिने

राष्ट्रदेव पशुपतिनाथाय नमः स्वाहा
मुक्तिनाथाय नमः स्वाहा
बराहक्षेत्रादि धामाय नमः स्वाहा
मानसरोवराय नमः स्वाहा
नागकुण्डाय नमः स्वाहा
मनकामना देव्यै नमः स्वाहा
हलेशी महादेवाय नमः स्वाहा
दक्षिणकाली देव्यै नमः स्वाहा
गोरखकाली देव्यै नमः स्वाहा
छिन्नमस्ता देव्यै नमः स्वाहा
पाथिभारा देव्यै नमः स्वाहा
पञ्चकन्या देव्यै नमः स्वाहा
गजुरमुखी देव्यै नमः स्वाहा
सप्तगण्डक्यै नमः स्वाहा
श्वेतगण्डक्यै नमः स्वाहा
कृष्णगण्डक्यै नमः स्वाहा
नारायणी देव्यै नमः स्वाहा
त्रिशूली देव्यै नमः स्वाहा
गंगा देव्यै नमः स्वाहा
सप्तकौशिक्यै नमः स्वाहा
वाग्मत्यै नमः स्वाहा
विष्णुमत्यै नमः स्वाहा
भागीरथ्यै नमः स्वाहा
सरस्वत्यै नमः स्वाहा
इन्द्रायणी नद्यै नमः स्वाहा
यमुनायै नमः स्वाहा
कन्कायै भगवत्यै नमः स्वाहा
जलेश्वरनाथाय नमः स्वाहा
शाली नद्यै नमः स्वाहा
देवघट्टाय नमः स्वाहा
गजेन्द्रमोक्षाय नमः स्वाहा
जनकपुरधामाय नमः स्वाहा
सिद्धनाथाय नमः स्वाहा
मच्छेन्द्रनाथाय नमः स्वाहा
गोरखनाथाय नमः स्वाहा
वैद्यनाथाय नमः स्वाहा
स्वयम्भूनाथाय नमः स्वाहा
गोकर्णेश्वराय नमः स्वाहा
गुह्येश्वरी देव्यै नमः स्वाहा
विन्ध्यवासिनी देव्यै नमः स्वाहा
तालबाराही धामाय नमः स्वाहा
विष्णुपादुकाय नमः स्वाहा
कोकाहा नद्यै नमः स्वाहा
चतरा धामाय नमः स्वाहा
पिण्डेश्वर धामाय नमः स्वाहा
सताक्षी धामाय नमः स्वाहा
मेची नद्यै नमः स्वाहा
महाकाली नद्यै नमः स्वाहा
वृन्दावन धामाय नमः स्वाहा
मथुरादि धामाय नमः स्वाहा
अयोध्या धामाय नमः स्वाहा
काशीनाथाय नमः स्वाहा
हरिद्वारादि धामाय नमः स्वाहा
परशुरामाय नमः स्वाहा
ऋषिकेशाय नमः स्वाहा
कामाख्या देव्यै नमः स्वाहा
ब्रह्मपुत्राय नमः स्वाहा
ॐ ग्रामादि देवताभ्यो नमः स्वाहा

।। इति ।।

ॐ एषोह देवः प्रदिशोऽ नु सर्व्वा: पूर्वो ह जातः सऽउ गर्भे अन्तः । सएव जातः स जनिष्यमाणः प्रत्यङ् जनास्तिष्ठति सर्व्वतो मुखः स्वाहा ।।

इदं सर्वेभ्यो देवेभ्यो न मम ।

ॐ शुक्रज्ज्योतिश्च चित्रज्ज्योतिश्च सत्यज्ज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्य ᳮ हा: स्वाहा ।।

इदं सर्वहोमपूरणार्थेभ्यो न मम ।

ॐ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम् । व्वर्धमान ᳮ स्वे दमे स्वाहा ।।

इदं पञ्चपाण्डवेभ्यो न मम ।।

ॐ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च । सासह्वाँश्चाभियुग्वा च व्विक्षिपः स्वाहा ॥

इदं भीमसेनाय न मम ।

पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन् पितरोऽमीमदन्त पितरोतीतृपन्त पितरः पितरः शुन्धध्व ᳮ स्वाहा ॥

इदं पितृभ्यो न मम । अत्र प्रणीतोदकस्पर्शः ।

ॐ ऋतावानं व्वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रङ्घर्म्ममीमहे । उपयामगृहीतोसि व्वैश्वानराय त्वैष ते योनिर्व्वैश्वानराय त्वा स्वाहा ॥

इदं वैश्वानराय न मम ।

ॐ वैश्वानरस्य सुमतौ स्याम राजा हि कम्भुवनाना मभिश्रीः । इतो जातो व्विश्वमिदं व्विचष्टे व्वैश्वानरो यतते सूर्येण । उपयामगृहीतोसि व्वैश्वानराय त्वैष ते योनिर्व्वैश्वानराय त्वा स्वाहा ।

इदं वैश्वानराय न मम ।

ॐ व्वैश्वानरो नऽऊतयऽआप्रयातु परावतः अग्नि रूक्थेन व्वाहसा । उपयामगृहीतोसि व्वैश्वानराय त्वैष ते योनिर्व्वैश्वानराय त्वा स्वाहा ॥

इदं वैश्वानराय न मम ।

ॐ आकाशे यानि लिङ्गानि यानि लिङ्गानि भूतले ।
पाताले यानि लिङ्गानि सर्वलिङ्ग नमोऽस्तु ते स्वाहा ॥

ॐ आकाशे यानि तीर्थानि यानि तीर्थानि भूतले ।
पाताले यानि तीर्थानि सर्वतीर्थ नमोऽस्तु ते स्वाहा ॥

ॐ आकाशे सन्ति ये देवा ये देवाः सन्ति भूतले ।
पाताले सन्ति ये देवाः सर्वदेव नमोऽस्तु ते स्वाहा ॥

महाव्याहृत्यादि उ.होमः

तद्यथा

ॐ महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्या देवता गायत्र्युष्णिगनुष्टुभश्छन्दांसि अग्न्याधाने विनियोगः ।

ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ॥
ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि ।
एता महाव्याहृतयः ।

ॐ त्वन्नोऽअग्न इति वामदेवऋषिरग्नीवरुणौ देवते त्रिष्टुप्छन्द आज्यहोमे विनियोगः ।।

ॐ त्वन्नोऽअग्ने व्वरुणस्य विद्वान देवस्य हेडोऽ अवयासिषीष्ठाः । यजिष्ठो व्वन्हितमः शो शुचानो व्विश्वा द्वेषाᳩ सि प्रमुमुग्ध्यस्मत् स्वाहा ॥

इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि

ॐ स त्वन्नोऽअग्न इति वामदेवऋषिरग्नीवरूणौ देवते त्रिष्टुप्छन्द आज्यहोमे विनियोगः ।

ॐ स त्वन्नोऽअग्ने वमो भवोतीनेदिष्ठोऽ अस्याऽ उषसो व्व्युष्टौ । अवयक्ष्वनो व्वरुणᳮ रराणो व्वीहि मृडीक ᳮसुहवो नऽ एधि स्वाहा ।

इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि ।

ॐ अयाश्चाग्न इति वामदेव ऋषिरग्नि र्देवता त्रिष्टुप्छन्दः प्रायश्चित्तहोमे विनियोगः ।

ॐ अयाश्चाग्ने ऽस्यनभिशस्ति पाश्च सत्य मित्वमयाऽ असि । अया नो यज्ञं व्वहास्यया नो धेहि भेषज ᳮस्वाहा ॥

इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।

ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः सविताविष्णुर्विश्वेदेवा मरुतः स्वर्का देवताः प्रायश्चित्त होमे विनियोगः ।

ॐ ये ते शतं व्वरुणं ये सहस्रं यज्ञियाः पाशा व्वितता महान्तः । तेभिर्नोऽअद्य सवितोत व्विष्णु र्व्विश्वे मुञ्चन्तु मरुतः स्वर्का: स्वाहा ॥

इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुभ्यः स्वर्केभ्यो न मम । प्रोक्षणीपात्रेऽपि

ॐ उदुत्तममिति शुनः शेपऋषिस्त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः ।

ॐ उदुत्तमं व्वरुण पाशमस्मदवाधमं व्विमध्यम ᳮश्रथाय । अथा व्वयमादित्यव्रते तवानागसोऽअदितये स्याम स्वाहा ॥

इदं वरुणाय न मम ।।प्रोक्षणीपात्रेऽपि ।।

ॐ प्रजापतय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः ।

ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । (इति मनसा)
ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम ।

ततः संस्रवप्राशनम् ।

एवं होमं समाप्याग्नेः स्थापितदेवतानां चोत्तराङ्गपूजनं कार्यम् ।

कुनै देवताको उत्तरांग पूजन् रहेको भए गर्ने

ॐ अद्येत्यादि पूर्वसङ्कल्पसिद्धिरस्त मम कृतस्यामुककर्मणः साङ्गतासिद्धयर्थं स्थापित देवतानां मृडाग्नेश्चोत्तराङ्गपूजनं करिष्ये ।

इति सङ्कल्प्य -

ॐ अग्नेनय सुपथा रायेऽअस्मान् व्विश्वानि देव व्वयुनानि व्विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम ऽ उक्तिं व्विधेम ।।
ॐ मृडाग्नये नमः ।

इति गन्धाद्युपचारैः सम्पूज्य स्थापिददेवताश्च गन्धाद्युपचारैः सम्पूजयेत् ।

अनया पूजया मृडाग्निः स्थापितदेवताश्च प्रीयन्तां न मम इति ।

पूर्णाहुतिहोम

ततो होता

होताले पानि समाउने

ॐ अद्येत्यादि कृतस्यामुककर्मणः परिपूर्णता सिद्धयर्थ पूर्णाहुतिं होमयिष्ये ।।

इति सङ्कल्प्य ।

ॐ मुर्धानन्दिवो ऽअरतिं पृथिव्या व्वैश्वानरमृतऽ आजा तमग्निम् । कवि ᳮ सम्राज मतिथिञ्जना नामासन्ना पात्रञ्जनयन्त देवाः स्वाहा ॥

इति पूर्णाहुतिहोमयेत् ।

स्रुवश्च मऽइति स्रुवपूजनम्

सूरो पूजा गर्ने

ॐ स्रुवश्च मे चमसाश्चमे व्वायव्यानि चमे द्रोण कलशश्चमे ग्रावाणश्चमेधिषवणेचमे पूत भृच्चम ऽआधवनीयश्चमे व्वेदिश्चमे व्वर्हिश्चमेऽवभृथश्चमे स्वगाकारश्चमे यज्ञेनकल्पन्ताम् ॥

नेपाली–संस्कृत पूजा विधि र ग्रन्थ सङ्ग्रह