रूप
कलश पूजा विधिः
भूरसीति भूमिशोधनम्
कलश नजिकै भुमिमा छुने
ॐ भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीन्दृ ᳮ ह पृथिवीं मा हिंᳮ सीः ।
धान्यमसीति धान्यं स्थापयेत्
धानमा छुने
ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा। दीर्घामनु प्रसीति मायुषे धान्देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्व च्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि।।
आ जिघ्र कलशमिति धान्योपरि अव्रणं कलशं स्थापयेत्
कलश छुने
आ जिघ्र कलशं मह्या त्वा विशन्त्विन्दवः । पुनरुर्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुना विशताद्रयिः ।।
वरुणस्योत्तम्भनमसीति कलशे तीर्थादिजलं प्रक्षिपेत्
कलशमा तीर्थको जल राख्ने
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ॥
या ओषधीरिति सर्वौषधीः प्रक्षिपेत्
सर्बोखधि राख्ने
ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा। मनैनु बभ्रूणामहᳮ शतंधामानि सप्त च।
हिरण्यगर्भ इति पञ्चरत्नानि
पंचरत्न राख्ने
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽ आसीत् । स दाधार पृथिवीं द्यामुतेमाङ्कस्मै देवाय हविषा विधेम ॥
याः फलिनीरिति फलादीनि
फल राख्ने
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्वंहसः ।।
ओषधय इति यवान्
जौ राख्ने
ॐ ओषधयः समवदन्त सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ।
गन्धद्वारामिति चन्दनम्
चन्दन चडाउने
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।
काण्डात्काण्डादिति दूर्वा
दूबो राख्ने
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
स्योना पृथिवीति सप्तमृत्तिका
सप्तमृतिका राख्ने
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥
अश्वत्थेव इति पञ्चपल्लवैस्तन्मुखमाच्छाद्य
पंचपल्लब राख्ने
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् ।
बृहस्पतेऽतीति वस्त्रयुग्मेन कलशं वेष्टयेत्
कपडा बेरिदिने
ॐ बृहस्पतेऽति यदर्योऽर्हाद्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छ वस ऋत प्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ उपयामगृहीतोसि बृहस्पतये त्वेषते योनिर्बृहस्पतये त्वा ॥
अम्बेऽम्बिके इति आम्रपल्लवैस्तन्मुखमाच्छाद्य
आप बर पिप्पल को पात राख्ने
ॐ अम्बेऽम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
तत्त्वा यामीति कलशे वरुणमावाह्य पूजयेत्
बरुणको आवाहन गरि पूजा गर्ने
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशंस्मान आयुः प्र मोषीः ॥
ततः कलशे गङ्गादितीर्थान्यावाहयेत्
तिर्थहरुलाई आवहान गर्ने
ॐ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
कलशं स्पृष्ट्वाभिमन्त्रयेत्
कलशको मुखछुने
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूलेत्वस्यस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।।
ततः कलशप्रार्थना
पन्चोपचार आदि चडाएर प्रार्थना गर्ने
ॐ देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ।
त्वतोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ।
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ।
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा ।।