रूप
शंख घण्टा पूजा
शंख पूजा
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
निर्मित सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ।।
ॐ अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम् । उपया म गृहीतो स्यग्नयेत्वा व्वर्चसऽ एषते योनि रग्नये त्वा व्वर्च्चसे ।
ॐ पाञ्चजन्याय विद्महे पवमानाय धीमहि तन्नः शङ्खः प्रचोदयात् ।।
ॐ भूर्भुवः स्वः शङ्खस्थ विष्णवे नमः आवाहयामि सर्वोपचारार्थे गन्ध पुष्पाणि समर्पयामि, नमस्करोमि ।।
घण्टा पूजा
सर्वप्रथम कर्ताले एकपटक घण्टी बजाई हातमा फूल लिई घण्टीमा अवस्थित गरुण भगवानको प्रार्थना गर्ने
ॐ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
घण्टनादं प्रकुर्वीत पश्चाद् घण्टां प्रपूजयेत् ।।
ॐ सुपर्णोऽ सि गरुक्त्माँ स्त्रिवृत्ते शिरो गायत्रञ्च क्षु र्बृहद्रथन्तरे पक्षौ । स्तोमऽ आत्व माच्छन्दा गुँ स्यङ्गानि यजू गुँ षि नामसाम ते तनूव्र्वाम देव्व्य यज्ञा यज्ञियम् पुच्छन्धिष्ण्याः शफाः सुपणोऽ सि गरुत्मान् दिवङ् गच्छ स्वः पत ।।
ॐ भूर्भुवः स्वः घण्टस्थ गरुडाय नमः ।। आवाहयामि सर्वोपचारार्थे गन्ध पुष्पाणि समर्पयामि नमस्करोमि ।।